|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.64. अध्यायः 064
Mahabharata - Drona Parva - Chapter Topics
नारदेन सृञ्जयम्प्रत्यम्बरीषविभवाभिधानम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
नारद उवाच। 7-64-0x(4419)(47127)
नाभागमम्बरीषं च मृतं सृञ्जय शुश्रुम।
यः सहस्रं सहस्राणां राज्ञां चैकस्त्वयोधयत्॥ 7-64-1(47128)
जिगीषमाणाः सङ्ग्रामे समन्ताद्वैरिणोऽभ्ययुः।
अस्त्रयुद्धविदो घोराः सृजन्तश्चाशिवा गिरः॥ 7-64-2(47129)
बललाघवशिक्षाभिस्तेषां सोऽस्त्रबलेन च।
छत्रायुधध्वजरथांश्छित्त्वा प्रासान्गतव्यथः॥ 7-64-3(47130)
त एनं मुक्तसन्नाहाः प्रार्थयञ्जीवितैषिणः।
शरण्यमीयुः शरणं तव स्म इति वादिनः॥ 7-64-4(47131)
स तु तान्वशगान्कृत्वा जित्वा चेमां वसुन्धराम्।
ईजे यज्ञशतैरिष्टैर्यथा शक्रस्तथाऽनघः॥ 7-64-5(47132)
बुभुजुः सर्वसम्पन्नमन्नमन्ये जनाः सदा।
तस्मिन्यज्ञे तु विप्रेन्द्राः सन्तृप्ताः परमार्चिताः॥ 7-64-6(47133)
मोदकान्पूरिकापूपान्स्वादुपूर्णाश्च शष्कुलीः।
करम्भान्पृथुमृद्वीका अन्नानि सुकृतानि च॥ 7-64-7(47134)
सूपान्मैरेयकापूपान्रागषाडवपानकान्।
मृष्टान्नानि सुयुक्तानि मृदूनि सुरभीणि च॥ 7-64-8(47135)
घृतं मधु पयस्तोयं दधीनि रसवन्ति च।
फलं मूलं सुस्वादु द्विजास्तत्रोपभुञ्जते॥ 7-64-9(47136)
मदनीयानि पापानि विदित्वा चात्मनः सुखम्।
अपिबन्त यथाकामं पानपा गीतवादितैः॥ 7-64-10(47137)
तत्र स्म गाथा गायन्ति क्षीबा हृष्टाः पठन्ति च।
नाभागस्तुतिसंयुक्ता ननृतुश्च सहस्रशः॥ 7-64-11(47138)
तेषु यज्ञेष्वम्बरीषो दक्षिणामत्यकालयत्।
राज्ञां शतसहस्राणि दशप्रयुतयाजिनाम्॥ 7-64-12(47139)
हिरण्यकवचान्सर्वाञ्श्वेतच्छत्रप्रकीर्णकान्।
हिरण्यस्यन्दनारूढान्सानुयात्रपरिच्छादान्॥ 7-64-13(47140)
ईजानो वितते यज्ञे दक्षिणामत्यकालयत्।
मूर्धाभिषिक्तांश्च नृपान्राजपुत्रशतानि च॥ 7-64-14(47141)
स दण्डकोशनिचयान्ब्राह्मणेभ्यो ह्यमन्यत।
नैवं पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे॥ 7-64-15(47142)
यदम्बरीषो नृपतिः करोत्यमितदक्षिणः।
इत्येवमनुमोदन्ते प्रीता यस्य महर्षयः॥ 7-64-16(47143)
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया।
पुत्रात्पुण्यतरस्तुभ्यं मा पुत्रमनुतप्यथाः।
अयज्वानमदक्षिण्यमभि श्वैत्येत्युदाहरत्॥ ॥ 7-64-17(47144)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि षोडशराजकीये चतुःषष्टितमोऽध्यायः॥ 64 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-64-8 सूपाद्योरण्डकान्यूषान् इति क.ङ.पाठः॥ 5-64-10 मादनीयानि मदकराणि सुरादीनि। पापानि पापहेतूनीति ज्ञात्वापि सुखलिप्सवः पिबन्तीत्यर्थः। मदनीयानि पानानि विदंशानात्मनः प्रियान्। पपुस्तत्र यथाकामं पानपा(का) गीतकाः परम् इति क.पाठः)॥ 5-64-12 अत्यकालयद्दातुं निष्कासितवान्। जिता राजान् एव सोपस्करदक्षिणात्वेन दत्ताः। तेषां राज्यानि ते राजानश्च ब्राह्मणसात्कृता इत्यर्थः॥ 5-64-64 चतुःषष्ठितमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|